________________
* श्रीगणेशाय नमः *
अथ स्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे
तृतायमरुणाचचमाहात्म्यम् तत्र उत्तरार्धः प्रारभ्यते
-::00::
प्रथमोऽध्यायः
स्थानमाहात्म्यप्रस्ताववर्णनम्
व्यास उवाच
वसन्तो नैमिषारण्ये मुनयः सूतमब्रुवन् ।
मुनय ऊचुः
स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः ॥ १ ॥
सूत उवाच
यूयं शृणुत यत्पूर्व नन्दीश्वरमुखाच्छ् तम् । मार्कण्डेयेन तद्वक्ष्येमुनयः शृणुताऽऽदरात् मार्कण्डेय उवाच
नन्दीश्वर त्वया प्रोको महिमा माध्यमेश्वरः । मयाऽप्यवधृतः सर्वोभक्तिश्रद्धाचेतसा तथापि वद मे भूयो देवदेव दयानिधे । अहं यत्परिपृच्छामि भवन्तं विहितादरः ॥ त्वयाऽप्यविदितं किञ्चिन्नास्त्यत्र भुवनत्रये । सर्वागमपुराणेषु वाह्याभ्यन्तरेषु च ॥